आसिंधु सिंधु पर्यन्ता, यस्य भारतभूमिका ।
पितृभू: पुण्यभूश्चैव स वै हिंदुरिति स्मृत: ॥
अस्मिन् दिवसे पञ्चसप्ततिवर्षाः जाताः । पूर्वं भारतः ब्रिटिशसाम्राज्यात् स्वतन्त्रम् अभवत्। ह्यः राष्ट्रपतिः राष्ट्रं सम्बोधितवान्। सः भारते प्रगतीविषये अनेकानि उदाहराणि दत्तवान्। तानि दृष्ट्वा सः भारतस्य प्रगत्यै आशान्वितः अस्ति। सः भारतस्य विधायकेभ्यः किञ्चित् प्रस्तावनाः दत्तवान्। सः अत्यन्तं सुन्दरं व्याख्यानं अददात्। तेन सह किञ्चित् छात्राः भारतस्य विकासाय नव प्रतिज्ञाः गृहितवन्तः। राष्ट्रपतिः आङ्ग्लभाषायाम् अवदत् प्रतिज्ञाः अपि आङ्ग्लभाषायाम् आसन्। यदि सः तमिलभाषायाम् अवदिष्यत् छात्राः अपि स्वभाषायां प्रतिज्ञां अग्रहिष्यन् तर्हि अतीव सुन्दरः अभविष्यत्। वयं स्वतन्त्राः किन्तु पूर्णस्वतन्त्राः न स्मः।
पूर्वं आङ्ग्लाः अस्माकं देशे शासनं कुर्वन्ति स्म । अस्माकं देशः शतशः वर्षाणि यावत् आङ्ग्लानां दासः आसीत् । १९४७ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के अस्माकं देशः आङ्ग्लानां दासत्वात् मुक्तिं प्राप्तवान् । अत एव वयं प्रतिवर्षं अगस्तमासस्य १५ दिनाङ्के स्वातन्त्र्यदिवसम् आचरामः।
१५ अगस्त दिनाङ्कः अवकाशः अस्ति। प्रभाते त्रिवर्णध्वजं विविधस्थानेषु उत्थाप्यते । जनाः ध्वजं उत्थापयन्ति, राष्ट्रगीतं च गायन्ति।
अस्मिन् दिने विद्यालयेषु महाविद्यालयेषु च अनेके कार्यक्रमाः आयोज्यन्ते। प्रातःकाले प्रधानमन्त्री दिल्लीनगरस्य लालदुर्गे राष्ट्रध्वजस्य उत्थापनं कृत्वा राष्ट्रं सम्बोधयति।
अगस्तमासस्य १५ दिनाङ्कः अस्माकं राष्ट्रियपर्व अस्ति।
भारतस्वतन्त्रतादिनम् ‘अगस्त’-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य ‘अगस्त’-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत्। अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते। तत्पूर्वं ब्रिटिश-जनाः भारतस्योपरि शासनं कुर्वन्ति स्म। १९४७ तमस्य वर्षस्य ‘अगस्त’-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः भारतगणराज्यस्य शासनं भारतीयेभ्यः यच्छन्तः भारतत्यागम् अकुर्वन्। भारतस्वतन्त्रतायाः तत् दिनं भारते राष्ट्रियपर्वत्वेन आचर्यते।
स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः देहली-महानगरस्थे रक्तदुर्गे भारतगणराज्यस्य राष्ट्रपतेः भाषणेन आरभते। ततः प्रधानमन्त्रिद्वाराध्वजारोहणं भवति। अनन्तरं प्रधानमन्त्री सर्वकारस्य कार्याणां योजनां प्राकटयन् सर्वेभ्यः शुभाशयं यच्छति। ततः सर्वेषां राज्यानां राजधानीषु मुख्यमन्त्रिणःध्वजारोहणं कृत्वा जनेभ्यः शुभाशयं यच्छन्ति।
(स्वातंत्र्य दिनस्य निमित्तं शशाङ्क कडूर एतेषां लेखनम्।)